|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.226. अध्यायः 226
Mahabharata - Vana Parva - Chapter Topics
कन्यया इन्द्रंप्रतिस्वस्य दक्षपुत्रीत्वकथनपूर्वकं भर्तृकामनानिवेदनम् ॥ 1 ॥ इन्द्रेण कन्याया उचितपतिं प्रार्थितेन ब्रह्मणा कन्याभर्तुरनतिचिरभावित्वकथनपूर्वकं तस्यैव तत्सेनापतीभवनकथनम् ॥ 2 ॥ सप्तर्षिमस्वे तत्पत्नीनामवलोकनेन क्षुभितमनसाऽग्निना तासामलाभेन निर्वेदाद्वनंप्रति गमनम् ॥ 3 ॥ चिरेणाग्निकामया स्वाहयाऽत्रावसरे सप्तर्षिपत्नीसमानरूपस्वीकारेणाग्निवशीकरणनिर्धारणम् ॥ 4 ॥
Mahabharata - Vana Parva - Chapter Text
कन्योवाच। 3-226-0x(2533)(24752)
अहं प्रजापतेः कन्या देवसेनेति वुश्रुता।
भगिनी मे दैत्यसेना सा पूर्वं कोशिना हृता ॥ 3-226-1(24753)
सहैवावां भगिन्यौ तु सखीभिः सह मानसम्।
आगच्छावो विहारार्थमनुज्ञाप्य प्रजापतिम् ॥ 3-226-2(24754)
नित्यं चावां प्रार्थयते हर्तुं केशी महासुरः।
इच्छत्येनं दैत्यसेना न चाहं पाकशासन ॥ 3-226-3(24755)
सा हृताऽनेन भगवान्मुक्ताऽहं त्वद्बलेन तु।
त्वया देवेन्द्र निर्दिष्टं पतिमिच्छामि दुर्जयम् ॥ 3-226-4(24756)
इन्द्र उवाच। 3-226-5x(2534)
मम मातृष्वसेयी त्वं माता दाक्षायणी मम।
आख्यातुं त्वहमिच्छामि स्वयमात्मबलं त्वया ॥ 3-226-5(24757)
कन्योवाच। 3-226-6x(2535)
अबलाऽहं महाबाहो पतिस्तु बलवान्मम।
वरदानात्पितुर्भावी सुरासुरनमस्कृतः ॥ 3-226-6(24758)
इन्द्र उवाच। 3-226-7x(2536)
कीदृशं तु बलंदेवि पत्युस्तव भविष्यति।
एतदिच्छाम्यहं श्रोतुं तव वाक्यमनिन्दिते ॥ 3-226-7(24759)
कन्योवाच। 3-226-8x(2537)
देवदानवयक्षाणां किन्नरोरगरक्षसाम्।
जेता यो दुष्टदैत्यानां महावीर्यो महाबलः ॥ 3-226-8(24760)
यस्तु सर्वाणि भूतानि त्वया सह विजेष्यति।
स हि मे भविता भर्ता ब्रह्मण्यः कीर्तिवर्धनः ॥ 3-226-9(24761)
मार्कण्डेय उवाच। 3-226-10x(2538)
इन्द्रस्तस्या वचः श्रुत्वा दुःखितोऽचिन्तयद्भृशम्।
अस्या देव्याः पतिर्नास्ति यादृशं संप्रभाषते ॥ 3-226-10(24762)
अथापश्यत्स उदये भास्करं भास्करद्युतिः।
सोमं चैव महाभागं प्रविशन्तं दिवाकरम् ॥ 3-226-11(24763)
अमावास्यां प्रवृत्तायां मुहूर्ते रौद्र एव तु।
देवासुरं च संग्रामं सोऽपश्यदुदये गिरौ ॥ 3-226-12(24764)
लोहितैश्च घनैर्युक्तां पूर्वां संध्यां शतक्रतुः।
अपश्यल्लोहितोदं च मघवान्वरुणालयम् ॥ 3-226-13(24765)
भृगुभिश्चाङ्गिरोभ्यश्च हुतं मन्त्रैः पृथग्विधैः।
हव्यं गृहीत्वा वह्निं च प्रविशन्तं दिवाकरम् ॥ 3-226-14(24766)
पर्व चैव चतुर्विंशं तदा सूर्यमुपस्थितम्।
तथा सूर्यं वह्निगतं सोमं सूर्यगतं च तम् ॥ 3-226-15(24767)
समालोक्यैकतामेव शशिनो भास्करस्य च।
समवायं तु तं रौद्रं दृष्ट्वा शक्रोऽन्वचिन्तयत् ॥ 3-226-16(24768)
सूर्याचन्द्रमसोर्घोरं दृश्यते परिवेषणम्।
एतस्मिन्नेव रात्र्यन्ते महद्युद्धं तु शंसति ॥ 3-226-17(24769)
सरित्सिन्धुरपीयं तु प्रत्यसृग्वाहिनी भृशम्।
शृगालिनयग्निवक्रा च प्रत्यादित्यं विराविणी ॥ 3-226-18(24770)
एष रौद्रश्चसंघातो महान्युक्तश्च तेजसा।
सोमस्य वह्निसूर्याभ्यामद्भुतोऽयं समागमः ॥ 3-226-19(24771)
जनयेद्यं सुतं सोमः सोऽस्या देव्याः पतिर्भवेत्।
अथानेकैर्गुणैश्चाग्निरग्निः सर्वाश्च देवताः ॥ 3-226-20(24772)
एष चेञ्जनयेद्गर्भं सोऽस्या देव्याः पतिर्भवेत्।
एवं संचिन्त्य भगवान्ब्रह्मलोकं तदा गतः ॥ 3-226-21(24773)
गृहीत्वा देवसेनां तां ववन्दे स पितामहम्।
उवाच चास्या देव्यास्त्वं साधु शूरं पतिं दिशा ॥ 3-226-22(24774)
ब्रह्मोवाच। 3-226-23x(2539)
यथैतच्चिन्तितंकार्यं त्वया दानवसूदन।
तथा स भविता गर्भो बलवानुरुविक्रमः ॥ 3-226-23(24775)
स विष्यति सेनानीस्त्वया सह शतक्रतो।
अस्या देव्याः पतिश्चैव स भविष्यति वीर्यवान् ॥ 3-226-24(24776)
एतच्छ्रुत्वा नमस्तस्मै कृत्वाऽसौ मह कन्यया।
तत्राभ्यगच्छद्देवेन्द्रो यत्र सप्तर्षयोऽभवन् ॥ 3-226-25(24777)
वसिष्ठप्रमुखा मुख्या विप्रेन्द्राः सुमहाप्रभाः।
भागार्थं तपसोपात्तं तेषां सोमं तथाऽध्वरे ॥ 3-226-26(24778)
पिपासवो ययुर्देवाः शतक्रतुपुरोगमाः।
इष्टिं कृत्वयतान्यायं सुसमिद्धे हुताशने ॥ 3-226-27(24779)
जुहुवुस्ते महात्मानो हव्यं सर्वदिवौकसाम्।
समाहूतो हुतवहःसोऽद्भुतः सूर्यमण्डलात् ॥ 3-226-28(24780)
विनिःसृत्य ययौ वह्निः पार्श्वतो विधिवत्प्रभुः।
आगम्याहवनीयं वै तैर्द्विजैर्मन्त्रतो हुतम् ॥ 3-226-29(24781)
सतत्र विविधं हव्यं प्रतिगृह्यहुताशनः।
ऋषिभ्यो भरतश्रेष्ठ प्रायच्छत दिवौकसाम् ॥ 3-226-30(24782)
निष्क्रामंश्चाप्यपश्यत्स पत्नीस्तेषां महात्मनाम्।
स्वेष्वासतेषूपविष्टाः स्नायन्तीश्च यथासुस्वम् ॥ 3-226-31(24783)
रुक्मवेदिनिभास्तास्तु चन्द्रलेखा इवामलाः।
हुताशनार्चिःप्रतिमाः सर्वास्तारा इवाद्भुताः ॥ 3-226-32(24784)
स तत्रतेन मनसा बभूव क्षुभितेन्द्रियः।
पत्नीर्दृष्ट्वा द्विजेन्द्राणां वह्निः कामवशं ययौ ॥ 3-226-33(24785)
भूयः संचिन्तयामास न न्याय्यं क्षुभितो ह्यहम्।
साध्व्यः पत्न्यो द्विजेन्द्राणामकामा कामयाम्यहम् ॥ 3-226-34(24786)
नैताः शक्या मया द्रष्टुं स्प्रष्टुं वाऽप्यनिमित्ततः।
गार्हपत्यं समाविश्य तस्मात्पश्याम्यभीक्ष्णशः ॥ 3-226-35(24787)
मार्कण्डेय उवाच। 3-226-36x(2540)
संस्पृशन्निव सर्वास्ताः शिखाभिः काञ्चनप्रभाः।
पश्यमानश्च मुमुदे गार्हपत्यं समाश्रितः ॥ 3-226-36(24788)
निरुध्य तत्रसुचिरमेवं वह्निर्वनं गतः।
मनस्तासु विनिक्षिप्य कामयानो वराङ्गनाः ॥ 3-226-37(24789)
कामसंतप्तहृदयो देहत्यागे विनिश्चितः।
अलाभे ब्राह्मणस्त्रीणामग्निर्वनमुपागमत् ॥ 3-226-38(24790)
स्वाहा तं दक्षदुहिता प्रथमाऽकामयत्तदा।
सा तस्य च्छिद्रमन्वैच्छच्चिरात्प्रभृतिभामिनी। 3-226-39(24791)
सा तं ज्ञात्वा यथावत्तु वर्हिं वनमुपागतम्।
तत्त्वतः कामसंतप्तं चिन्तयामास भामिनी ॥ 3-226-40(24792)
अहं सप्तर्षिपत्नीनां कृत्वा रूपाणि पावकम्।
कामयिष्यामि कामार्तं तासां रूपेण मोहितम्।
एवं कृते प्रीतिरस् कामावाप्तिश्च मे भवेत् ॥ 3-226-41(24793)
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि षङ्घिंशत्यधिकद्विशततमोऽध्यायः ॥ 226 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-226-12 अप्यमावस्यमावासी चामामास्यप्यमामसाति शब्दार्णवः ॥ 3-226-20 अग्निस्च तैर्गुणैर्युक्तः सर्वैरग्निश्च देवतेति झ. पाठः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|